Monday, November 21, 2016

भूतप्रेतपिशाचाद्या-स्तोत्र

भूतप्रेतपिशाचाद्या यस्य स्मरणमात्रतः ||
दूरादेव पलायन्ते दत्तात्रेयं नमामि तं || ||
यन्नामस्मरणाद्-दैन्यं पापं तापश्च नश्यति ||
भीतिग्रहार्तिदु:स्वप्नं दत्तात्रेयं नमामि तम् || ||
दद्रुस्फोटककुष्ठादि महामारी विषूचिका ||
नश्यन्ति अन्येSपि रोगाश्च दत्तात्रेयं नमामि तम् || ||
संगजा देशकालोत्था अपि सांक्रमिका गदा: ||
शाम्यन्ति यत्स्मरणतो दत्तात्रेयं नमामि तम् || ||
सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम् ||
यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तम्|| ||
त्रिविधोत्पातशमनं विविधारिष्टनाशनम् ||
यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम् || ||
वैर्यादिकृतमन्त्रादिप्रयोगा यस्य कीर्तनात ||
नश्यन्ति देवबाधाश्च दत्तात्रेयं नमामि तम् || ||
यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ||
ईश: सर्वतस्त्रांता दत्तात्रेयं नमामि तम् || ||
जयलाभयशःकामदातुर्दत्तस्य यः स्तवम् ||
भोगमोक्षप्रदस्येमं पठेद्-दत्तप्रियो भवेत्|| ||

इति श्रीवासुदेवानन्दसरस्वतीविरचितं दत्तस्तवस्तोत्रं संपूर्णम् ||

No comments:

Post a Comment