Sunday, October 23, 2016

दत्तात्रेयं सनातनं



 
आंतरजालावरून साभार

श्री दत्तात्रेय स्तुती
दत्तात्रेयं सनातनं ब्रह्म निरञ्जनम् | आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् || ||
चिन्मयं व्यापितं सर्वं चिदाकाशं दिगम्बरम् | निर्विकल्पं निराभासं दृश्यदर्शनवर्जितम् || ||
अगोचरं निरालम्बं ब्रह्मचारी यतीश्वरः | बर्गलोकनायकं स्म्पूर्णं परमात्मनरक्षकः || ||
आशापाशविबन्धनमुक्तः शौचाशौचविवर्जितयुक्तः | शून्यागारे समरसमज्ञः शुद्धविशुद्धं सततसमज्ञः || ||
दत्तात्रेय नाथोत्तमं सुखदं परमानन्दसागरम् | चित्कीर्तिभूषणं वन्दे स्मर्तृगामी स माऽवतु || ||
हर्षवर्धनं वन्दे कौवल्यसुखदायकं | सकलागमपूजितं वन्दे स्मर्तृगामी स माऽवतु || ||
संसारतमनाशनं संकल्पदु:खदलनम् | तापत्रयनिवारकं वन्दे स्मर्तृगामी स माऽवतु || ||
संशयार्णवखण्डनं दोषत्रयविभेदिनम् | ब्रह्मप्रकाशात्मानं वन्दे स्मर्तृगामी स माऽवतु || ||
भार्गवप्रियकृत्तमं दूरत्वपरिनाशनम् | जगदार्जवपालनं वन्दे स्मर्तृगामी स माऽवतु || ||
नमस्ते कालाग्निशमनाय योगिजनवल्लभाय नमोऽस्तु ते | नमस्ते अत्रिपुत्राय दत्तात्रेयाय नमोऽस्तु ते || १० ||
नमस्ते लीलाविश्वम्भराय अवधूताय नमोऽस्तु ते | नमस्ते अनसूयानन्दनाय दिगम्बराय नमोऽस्तु ते || ११ ||
नमस्ते सत्वसाध्याय सत्वसाक्षिणे नमोऽस्तु ते | नमस्ते गुह्यतमाय चिद् विलासाय नमोऽस्तु ते || १२ ||
नमस्ते क्षेत्राधाराय क्षेत्रशून्याय नमोऽस्तु ते | नमस्ते रुपकारणाय गगनाकृतये नमोऽस्तु ते || १३ ||
श्री दत्तात्रेय पाहि मां प्रसीद दिगम्बर | क्षमस्व अवधूत रक्ष रक्ष श्रीगुरो || १४ ||

No comments:

Post a Comment