Showing posts with label स्तोत्र. Show all posts
Showing posts with label स्तोत्र. Show all posts

Monday, November 21, 2016

पितृपीडा निवारकस्तोत्र


पितृदोष दूर होऊन घरात सुख-शांती-ऐश्वर्य प्राप्त व्हावे यासाठी     

     पितृपिडा निवारक स्तोत्र
ॐ चैतन्य महापुरुषाय नमः
ॐ चैतन्य कुल पुरुषाय नमः
अर्चिनानाम मूर्तानां पितृणाम तेजसाम्।
नमस्यामि सदा तेषां ध्यानिनां दिव्य चक्षुषाम् ॥१॥
इंद्रां दिनांच मेतरो दक्ष मरीच य स्तथा ।
सप्तर्षिणां तथा न्येषां तान् नमस्यामि कामदां ॥२॥
मन्यादिनां मुनीन्द्राणां सूर्या चंद्रमसो स्तथा ।
तान् नमस्यामहं सर्वान् पितृनप्सूद धावपि ॥३॥
नक्षत्राणां ग्रहाणां च वाटवग्न्यो नभस्तथा ।
धावा पृथिव्योश्च तथा नमस्यामि कृतांजली ॥४॥
देवर्षिणां जनितांश्च सर्व लोक नमस्कृतान् ।
अक्षय्यस्य सदा दातुन नमस्ये अहं कृतांजली ॥५॥
प्रजापतेः कश्यपाय सोमाय वरुणय च ।
योगेश्वरोभ्यश्च सदा नमस्यामि कृतांजली ॥६॥
नमो गणेभ्य सप्तभ्यस्तथा लोकेषु सप्तसु ।
स्वयं भुवे नमस्यामि ब्रह्मणे योग चाक्षेषे ॥७॥
सोमाधारान् पितृगणान् योगमूर्ति धरांस्तथा ।
नमस्यामि तथा सोमं पितरं जगताम्यहम् ॥८॥
अग्नि रुपांस्तथैवान्यान् नमस्यामि पितृन्म्यहम् ।
अगिषोम मयं विश्वं यत् ऐतद् शेषतः ॥९॥
येतु तेजसि ये चैते सूर्याग्नि मूर्तयः ।
जगत् स्वरुपिण श्वेवस्तथा ब्रह्म स्वरुपिणाः ॥१०॥
तेभ्यो अखिलेभ्यो योगी पितृभ्यो यत मानसः ।
नमो नमो नमस्ते मे प्रसीदतु स्वधा भूज ॥११॥

॥पितृपीडा निवारक स्तोत्रं॥  

कालभैरवाष्टक स्तोत्र


॥भैरवाष्टकं प्रयोगेन कालसर्पादि भयं विनश्यति॥
आजारपण, भूतबाधा, कुंडलीतील कालसर्पयोग शांतीसाठी, अष्टसिद्धीप्राप्तीसाठी.


                 कालभैरवाष्टक स्तोत्र
          ॥ श्री गणेशाय नमः॥
             ॥ देवा उचुः ॥
नमो भैरवदेवाय नित्यानंदमूर्तये।
विधिशास्त्रान्तमार्गाय वेदशास्त्रार्थ दर्शिने ॥१॥
दिगंबराय कालाय नमः खट्वांगधारिणे ।
विभुतिविलसत् भालनेत्रार्धेदुमालिने ॥२॥
कुमारप्रभवे तुभ्यं बटुकाय महात्मने ।
नमो अचिंत्यप्रभावाय त्रिशूलायुधधारिणे ॥३॥
नमः खड्गमहाधारहृत त्रैलोक्यभीतये ।
पूरितविश्वविश्वाय विशपालाय ते नमः ॥४॥
भूतावासाय भूताय भूतानां पतये नमः ।
अष्टमूर्ते नमस्तुभ्यं कालकालाय ते नमः ॥५॥
कं कालायातिघोराय क्षेत्रपालाय कामिने ।
कलाकाष्टादिरुपाय कालाय क्षेत्रवासिने ॥६॥
नमः क्षेत्रजिते तुभ्यं विराजे ज्ञानशालिने ।
विद्यानां गुरुवे तुभ्यं विधीनां पतये नमः ॥७॥
नमः प्रपंचदोर्दंड दैत्यदर्पविनाशिने ।
निजभक्तजनोद्दाम हर्षप्रवर दायिने ॥८॥
नमो जंभारिमुख्याय नमो ऐश्वर्याष्टदायिने ।
अनंत-दुःख-संसार-पारावारान्तदर्शिने ॥९॥
नमो जंभाय मोहाय द्वेषायोच्चाटकारिणे ।
वंशकराय राजन्यमौलिन्यस्त निजांघ्रये ॥१०॥
नमो भक्तपदां हंत्रे स्मृतिमात्रार्थ दर्शिने ।
आनंदमूर्तये तुभ्यं स्मशाननिलयाय ते ॥११॥
वेतालभूतकुष्मांड-ग्रहसेवा-विलासिने ।
दिगंबराय महते पिशाचाकृतिशालिने ॥१२॥
नमो ब्रह्मादिभिर वद्य-पदरेणुवरायुषे ।
ब्रह्मादिप्रासदक्षाय निष्फलाय नमो नमः ॥१३॥
नमः काशीनिवासाय नमो दण्डकवासिने ।
नमो अनंतप्रबोधाय भैरवाय नमो नमः ॥१४॥

इति सर्व देवकृत श्रीकालवाष्टकः ॥

श्री नृसिंहऋणमोचन स्तोत्र


ऋणमुक्ती व धनप्राप्ती साठी प्रभावी स्तोत्र
               ॥ श्री नृसिंहऋणमोचन स्तोत्र ॥
देवताकार्यसिध्यर्थम् सभास्तंभसमुद् भवम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥१॥
लक्ष्म्यालिंगित वामांगम् भक्तानाम् वरदायिनम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥२॥
सिंहनादेन महनां दिग्दंतिभयदायकम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥३॥
प्रह्लादवरदं श्रीशं दैत्येश्र्वरविदारणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥४॥
आंत्रमालाधरं शंखचक्राद्या युधधारणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥५॥
स्मरणात् सर्वपापघ्नं कद्रुजविषशोधनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥६॥
कोटीसूर्य प्रतिकाशमभिचार विनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥७॥
वेदवेदांतयज्ञेश ब्रह्मरुद्रादिसंस्थितम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥८॥
य इदं पठते नित्यं ऋणमोचकसंज्ञिकम् ।
अनृणी जायते सद्यो धनं शीघ्रमवाप्नुयात् ॥९॥

  ॥ इती श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं संपुर्णम् ॥